पंचमहायज्ञा:

             

पंचमहायज्ञा

   पञ्चमहायज्ञानामतिसंक्षेपेण व्याख्यानं




प्रतिदिनं सम्पद्यमानेषु यज्ञेषु पञ्चमहायज्ञानां महत्त्वपूर्ण स्थानमस्ति । वैदिकयुगे एषां पञ्चानां दैनिक यज्ञानां महीयान् प्रचार आसीत् । इमे पञ्च महायज्ञाः विशालैः यज्ञैस्तुल्याः सन्ति । एषां नामानि सन्ति – (1) ब्रह्मयज्ञः, (2) पितृयज्ञः, (3) देवयज्ञः, (4) भूतयज्ञः, (5) नृयज्ञश्च । ब्रह्मयज्ञो वेदाध्ययनस्य अध्यापनयोः अथवा मन्त्रपाठस्य अमिधानमस्ति । पितृयज्ञः पिण्डदानम् अथवा तर्पणमस्ति । देवयज्ञो हवनादिकर्म विद्यते। भूतयज्ञो चलिरूपेण अन्नादि-पदार्थानां दानमुच्यते तथानृयज्ञाः अथवा मनुष्ययज्ञाः अतिथीनां भोजनादिना सत्कारेण सम्पद्यन्ते ।


ब्रह्मयज्ञस्य सामान्य परिचय


अस्य यज्ञस्य माध्यमेन मनुष्यः स्वप्राचीनान् ऋषीन् प्रति श्रद्धाभावमादरञ्च प्राकटयत्। एवं करणेन मनुष्यस्तान् ऋषीन् स्मृत्वा वेद-मंत्राणां पाठमकरोत् । इत्थं ब्रह्मयज्ञे वेदस्य अध्ययन अध्यापन द्वारा ज्ञानवृद्धेः समावेशो भवति। नियमितरूपेण अस्य यज्ञस्य अनुष्ठानकर्त्तार जनाः आत्मनः, स्वदेशस्य, स्वजातेः एवं समग्रमानवजातेः कल्याणं विधाय अमरत्वमवाप्नुवन् । वेदस्यास्य नित्यम् अध्ययन अध्यापनेन मानवः सततं स्वज्ञानस्य वृद्ध्यर्थ सचेष्टो भवति। मनुना उक्तम् स्वाध्याये नित्य युक्तः स्यात् ।


पितृयज्ञस्य सामान्यः परिचयः


दैनिके जीवने कलहादि उपद्रवाणां दूरीकरणार्थं प्राचीनाः ऋषयः पितृयज्ञस्य विधानं कृतवन्तः। येन पारिवारिकं जीवनम् आनन्दपूर्वकं व्यतीतं भवेत्। अस्मिन् यज्ञे मनुष्यः पितॄन् अर्थात् स्वर्गस्थान् पूर्वजान् प्रति कृतज्ञतामज्ञापयत्। एवं विश्वास आसीत् यत्प्रत्येक नरः पितॄणाम् ऋणैः वृद्धः अस्ति । अयम् ऋणः पितृयज्ञ-सम्पादनस्य पश्चादेव समाप्तिमगच्छत् । पितृतर्पण-बलिहरण श्राद्ध-प्रभृति कार्याणि पितृयज्ञस्य अन्तर्गत सम्पन्नानि भवन्ति। शास्त्रकाराणामस्मिन् यज्ञे केवल मृतपितॄन प्रति एवं तर्पणादि कर्तव्यानि अभीष्टानि नैवासन्, अपितु स्व-स्वर्गस्थ यशस्विनां पुण्यवतो पूर्वजानां गुणानात्मसात्कृत्य स्वजीवित मातापितृभिः सह अपि सेवन भोजनदानादिक सद्व्य वहारोऽपि अभीष्ट आसीत



देवयज्ञस्य सामान्यः परिचयः


 यज्ञेऽस्मिन् देवतानां पूजनम् अर्चनं क्रियते स्म तथा बलिदानं । समर्पणम् अग्नौच देवेभ्य आहुतीः प्रदाय तान् प्रति कृतज्ञत्वम् अभिव्यज्यते स्म। प्रायेण मनुष्याः विश्वासं कुर्वन्ति स्म यत्तेषां पार्श्वे यान्यपि ज्ञो सुख-सौविध्य-साधनानि सन्ति । तानि सर्वाणि ईश्वर प्रदत्तानि एवं सन्ति । अतः प्रत्येकं नरस्य इदं 'कर्त्तव्यमस्ति यत्सः देवान् प्रति आभार प्रदर्शयेत् । ज्ञो अस्मिन् यज्ञे अग्नौ देवेभ्य आहुतिप्रदानस्य तथा बलेः अर्थात् अमूल्यवस्तुनः समर्पणस्य विधानमासीत्। आहुतिप्रदानेन मनुष्यस्य कल्याणमभवत् विधिपूर्वकम् अग्नौ प्रक्षिप्ताहुतिः सूर्यं गच्छति सूर्यस्य अनुग्रहेण वृष्टिः, वृष्टेरन्नम्, अन्नेन प्रजाः जीवनं धारयन्ति। आरोग्य दृष्ट्यापि दैनिक हवन-अनुष्ठानमुचितमस्ति यतो हि अनेके जलस्य वायोश्च शुद्धि द्वारा वातावरण-दोषाः नष्टाः भवन्ति। अनने प्रकारेण गृहस्थ आश्रमस्य अयं त्वा दैनिको देवयज्ञः व्यक्तिगतं लाभं यावत् सीमितो न भूत्वा सामाजिकाय श्रेयसे कल्याणकरो भवति ।



भूतयज्ञस्य सामान्य परिचयः


अयं 'बलिवैश्वदेव' अपि कथ्यते। अस्य सम्पादनस्य विधिरयमस्ति यत्पाकशालायां यदपि भोजन निर्मितमस्ति, तस्माद् मधुरमन्नं गृहीत्वा तस्य मधुरान्नस्य काश्चिद् आहुतयः अग्नौ पाकशालायामेव दीयन्ते, तदानीं केषांचिद् विशिष्ट मन्त्राणामुच्चारणं क्रियते । एतस्य अनन्तरं सूप - ओदन रोटिकादीनां षड्भागाः गो-कुक्कुर-वायसादिपक्षि-कृमि कीटादि सूक्ष्मजीवेभ्य एवं अनाथ पतित श्वपचादिभ्यो निःसार्यन्ते । अत्र विश्वस्य अनाथ असहाय जीवान् प्रति सेवायाः भाव एव सन्निहितोऽस्ति । भूतयज्ञो पति वस्तुत अस्मान् त्यागपूर्वकं भोगस्य शिक्षां प्रददाति—


ईशावास्यमिद सर्वं यत्किञ्चिद जगत्यां जगत्। उत्। तेन त्यक्तेन भुञ्जीथा मागृधः कस्य स्विद्धनम्।। (ईशावास्य-उपमंत्र)




गीतायाः तृतीयाध्याये भगवताप्युक्तम्


यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्॥ (3713)

भारतीय विचारधाराया अनुसार समग्रस्य विश्वस्य आत्मा परमात्मा एवास्ति स एव सर्वप्राणिषु चैतन्यरूपेण निवसति अतः भूतयज्ञ द्वारा परमात्मन एवं पूजा सम्पद्यते तथा सर्वप्राणिनां सेवा द्वारा ईश्वरस्य पूजया सह परोपकारधर्मस्य पालनस्य श्रेयः प्राप्यते ।


मानवजीवने नृयज्ञस्य महत्त्व


अयमेव अतिथियज्ञनाम्ना प्रसिद्धं यथाकालं यथाशक्ति अतिथीनां सत्करणं गृहस्थस्य परमधर्मरूपेण अभिमतमस्ति । सामाजिक-आत्मिक नैतिकदृष्ट्या नृयज्ञस्य अत्यधिकं महत्त्वमासीत्। अस्य यज्ञस्य तात्पर्योऽस्ति यत् प्रत्येक गृहस्थीजनः अतिथीन् प्रति स्वोत्तरदायित्वानि कर्त्तव्यानि चावगच्छेत्। अतिथिः कस्या अपि जातेर्भवेत् स सदैव समादरणीय एवाभिमतोऽस्ति तैत्तिरीय संहितानुसारम् अतिथिदेव अर्थात् हे उपात्तविद्य! त्वं गृहस्थाश्रमे सदैव अतिथिं देवम् ईश्वरतुल्यं मन्यस्व। एतद्विषये एवमुक्तमस्ति यदसौ अतिथिः गृहस्थस्य भोजनं नैव अपितु तस्य पापानि भक्षयति। धर्मशास्त्रेषु अतिथिपूजनस्य महत्त्वं प्रतिपादयद्भिः ऋषिभि कथितम् यद् यस्माद् गृहाद् अतिथिः निराशो भूत्वा निवर्तते तस्य गृहस्य सः सर्वाणि पुण्यानि नयति । स्वपापानि च तत्र 

परित्यजति ।

 कठोपनिषद् यमराजस्य पत्नी यमराजं प्रति अतिथिदेव अपूजनस्य परिणामान् स्पष्टीकुर्वन्ती कथयति—


आशा प्रतीक्षे संगतं सूनृतां च इष्टापूर्ते पुत्र पशूंश्च सर्वान्। एतद् वृङ्क्ते पुरुषस्य अल्पमेध


यस्यानश्नन् बसति ब्राह्मणो गृहे ||


(क. उ. उ. बल्ली 1/ अ. 11 मं. 8) अर्थात् अपूजितो वा असम्मानित अतिथिः गृहस्थस्य सर्वाणि पुण्यानि आदाय गच्छति। अद्यापि सर्वेषु धर्मेषु अतिथिसत्कारस्य महत्वं पूर्णतः स्वीकृतं दृश्यते।


इत्थं पञ्चमहायज्ञसिद्धान्तो गृहस्थं प्रत्येक दृष्ट्या उन्नतिशीलमेवम् आदर्श मानवरूपेण आचरितुं चेष्टते। नैतिक धार्मिक धरातले इमे पञ्चमहायज्ञाः मानवजीवनस्य सांस्कृतिकं पक्षं प्रस्तुवन्ति । एषामाचरणेन मनुष्यो जीवनस्य वास्तविकमानन्दं प्राप्तुं शक्नोति ।

           ****** शास्त्री हरी आर्य: ****

एक टिप्पणी भेजें (0)
और नया पुराने